श्रीअघोराष्टक लिरिक्स
![]() |
श्रीअघोराष्टक लिरिक्स |
श्रीअघोराष्टक लिरिक्स
कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलं
दंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्वालोग्रनेत्रत्रयम् ।
रक्ताकोरकरक्तमाल्यरचितं रक्तानुलेपप्रियं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥१॥
जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितं
डमरुं पिशाचमनिशं शूलं च मूलं करैः ।
घण्टाखेटकपालशूलकयुतं वामस्थिते बिभ्रतं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥२॥
नागेन्द्रावृतमूर्ध्निज स्थित गलश्रीहस्तपादाम्बुजं
श्रीमद्दोःकटिकुक्षिपार्श्वमभितो नागोपवीतावृतम् ।
लूतावृश्चिकराजराजितमहाहाराङ्कितोरस्स्थलं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥३॥
धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि प्राणिनां
पाशान्ये क्षुरिकास्त्रपाशदलितग्रन्थिं शिवास्त्राह्वयं ।
विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥४॥
घोराघोरतराननं स्फुटदृशं सम्प्रस्फुरच्छूलकं
प्राज्यांनृत्तसुरूपकं चटचटज्वालाग्नितेजःकचम् ।
प्रचटत्कृतारिनिकरंस्त्रग्रुण्डमालान्वितं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥५॥
भक्तानिष्टकदुष्टसर्पदुरितप्रध्वंसनोद्योगयुक्
हस्ताग्रं फणिबद्धहस्तचरणं प्रारब्धयात्रापरम् ।
स्वावृत्त्यास्थितभीषणाङ्कनिकरप्रारब्धसौभाग्यकं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥६॥
यन्मन्त्राक्षरलाञ्छितापघनवन्मर्त्याश्च(च्च) वज्रार्चिषो
भूतप्रेतपिशाचराक्षसकलानिर्घातपाता इव(दिव) ।
उत्सन्नाश्च भवन्ति सर्वदुरितप्रोच्चाटनोत्पादकं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥७॥
यद्ध्यानो ध्रुवपूरुषो(ध्यानोद्यतपूरुषो)षितगृहग्रामस्थिरास्थायिनो
भूतप्रेतपिशाचराक्षसप्रतिहता निर्घातपाता इव ।
यद्रूपं विधिना स्मरन् हि विजयी शत्रुक्षयं प्राप्नुते
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥८॥
॥ इति श्रीअघोराष्टकं सम्पूर्णम् ॥
टिप्पणियाँ