
॥ श्रीराम अष्टकम् लिरिक्स ॥
भजेविशेषसुन्दरं समस्तपापखण्डनम् ।
स्वभक्तचित्तरञ्जनं सदैवराममद्वयम् ॥1॥
जटाकलापशोभितं समस्तपापनाशकम् ।
स्वभक्तभीतिभञ्जनं भजेः राममद्वयम् ॥2॥
निजस्वरूपबोधकं कृपाकरं भवापहम् ।
समं शिवं निरञ्जनं भजेः राममद्वयम् ॥3॥
सहप्रपञ्चकल्पितं ह्यनामरूपवास्तवम् ।
निराकृतिं निरामयं भजेः राममद्वयम् ॥4॥
निष्प्रपञ्चनिर्विकल्पनिर्मलं निरामयम् ।
चिदेकरूपसन्ततं भजेः राममद्वयम् ॥5॥
भवाब्धिपोतरूपकं ह्यशेषदेहकल्पितम् ।
गुणाकरं कृपाकरं भजेः राममद्वयम् ॥6॥
महावाक्यबोधकैर्विराजमानवाक्पदैः ।
परं ब्रह्मसद्व्यापकं भजेः राममद्वयम् ॥7॥
शिवप्रदं सुखप्रदं भवच्छिदं भ्रमापहम् ।
विराजमानदेशिकं भजेः राममद्वयम् ॥8॥
रामाष्टकं पठति यस्सुखदं सुपुण्यम् ।
व्यासेनभाषितमिदं शृणुतेमनुष्यः ॥9॥
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिम् ।
संप्राप्यदेहविलये लभते च मोक्षम् ॥10॥

टिप्पणियाँ